|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.192. अध्यायः 192
Mahabharata - Adi Parva - Chapter Topics
कल्माषपादराजोपाख्याने---वसिष्ठपुत्रेण शक्तिना कल्माषपादं प्रति शापदानं॥ 1 ॥
पुनरन्येन ब्राह्मणेन च कल्माषपादंप्रति शापदानं॥ 2 ॥
राक्षसाविष्टेन कल्माषपादेन वसिष्ठपुत्राणां भक्षणं॥ 3 ॥
पुत्रशोकाभिसंतप्तेन वसिष्ठेन प्राणत्यागार्थं अनेकधा प्रयतनम्॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
`अर्जुन उवाच। 1-192-0x(1100)(8593)
ऋष्योस्तु यत्कृते वैरं विश्वामित्रवसिष्ठयोः।
बभूव गन्धर्वपते शंस तत्सर्वमेव मे॥ 1-192-1(8594)
माहात्म्यं च वसिष्ठस्य ब्राह्मण्यं ब्रह्मतेजसः।
विश्वामित्रस्य च तथा क्षत्रस्य च महात्मनः॥ 1-192-2(8595)
न शृण्वानस्त्वहं तृप्तिमुपगच्छामि खेचर।
आख्याहि गन्धर्वपते शंस तत्सर्वमेव मे॥ 1-192-3(8596)
माहात्म्यं च वसिष्ठस्य विश्वामित्रस्य भाषते॥ 1-192-4(8597)
गन्धर्व उवाच। 1-192-5x(1101)
इदं वासिष्ठमाख्यानं पुराणं पुण्यमुत्तमम्।
पार्थ सर्वेषु लोकेषु विश्रुतं तन्निबोध मे॥' 1-192-5(8598)
कल्माषपाद इत्येवं लोके राजा बभूव ह।
इक्ष्वाकुवंशजः पार्थ तेजसाऽसदृशो भुवि॥ 1-192-6(8599)
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात्।
मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः॥ 1-192-7(8600)
तस्मिन्वने महाघोरे खङ्गांश्च बहुशोऽहनत्।
हत्वा च सुचिरं श्रान्तो राजा निववृते ततः॥ 1-192-8(8601)
अकामयत्तं याज्यार्थे विश्वामित्रः प्रतापवान्।
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम्॥ 1-192-9(8602)
तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि।
अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम्॥ 1-192-10(8603)
शक्तिं नाम महाभागं वसिष्ठकुलवर्धनम्।
ज्येष्ठं पुत्रं पुत्रशताद्वसिष्ठस्य महात्मनः॥ 1-192-11(8604)
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत्।
तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा॥ 1-192-12(8605)
मम पन्था महाराज धर्म एष सनातनः।
`वृद्धभीरुनृपस्नातस्त्रीरोगिवरचक्रिणाम्॥ 1-192-13(8606)
पन्था देयो नृपैस्तेषामन्यैस्तैस्तस्य भूपतेः।'
राज्ञा सर्वेषा धर्मेषु देयः पन्था द्विजातये॥ 1-192-14(8607)
एवं परस्परं तौ तु पथोऽर्थं वाक्यमूचतुः।
अपसर्पापसर्पेति वागुत्तरमकुर्वताम्॥ 1-192-15(8608)
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः।
`अपि राजा मुनेर्मार्गात्क्रोधान्नापजगाम ह॥' 1-192-16(8609)
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः।
जगाम कशया मोहात्तदा राक्षसन्मुनिम्॥ 1-192-17(8610)
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः।
तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः॥ 1-192-18(8611)
हंसि राक्षसवद्यस्माद्राजापशद तापसम्।
तस्मात्त्वमद्यप्रभृति पुरुषादो भविष्यसि॥ 1-192-19(8612)
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम्।
गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना॥ 1-192-20(8613)
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः।
वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत॥ 1-192-21(8614)
तयोर्विवदतोरेवं समीपमुपचक्रमे।
ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान्॥ 1-192-22(8615)
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः।
ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा॥ 1-192-23(8616)
अन्तर्धाय ततोऽत्मानं विश्वामित्रोऽपि भारत।
तावुभावतिचक्राम चिकीर्षन्नात्मनः प्रियम्॥ 1-192-24(8617)
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः।
जगाम शरणं शक्तिं प्रसादयितुमर्हयन्॥ 1-192-25(8618)
तस्य भावं विदित्वा स नृपतेः कुरुसत्तम।
विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति॥ 1-192-26(8619)
शापात्तस्य तु विप्रर्षेर्विश्वामित्रस्य चाज्ञया।
राक्षसः किङ्करो नाम विवेश नृपतिं तदा॥ 1-192-27(8620)
रक्षसा तं गृहीतं तु विदित्वा मुनिसत्तमः।
विश्वामित्रोऽप्यपाक्रामत्तस्माद्देशादरिन्दम॥ 1-192-28(8621)
ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना।
बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह॥ 1-192-29(8622)
ददर्शाथ द्विजः कश्चिद्राजानं प्रस्थितं वनम्।
अयाचत क्षुधापन्नः समांसं भोजनं तदा॥ 1-192-30(8623)
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा।
आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तं प्रतिपालयन्॥ 1-192-31(8624)
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम्।
इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः॥ 1-192-32(8625)
ततो राजा परिक्रम्य यथाकामं यथासुखम्।
निवृत्तोऽन्तःपुरं पार्थ प्रविवेश महामनाः॥ 1-192-33(8626)
`अन्तर्गतस्तदा राजा श्रुत्वा ब्राह्मणभाषितम्।
सोऽन्तःपुरं प्रविश्याथ न सस्मार नराधिपः॥' 1-192-34(8627)
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम्।
उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम्॥ 1-192-35(8628)
गच्छामुष्मिन्वनोद्देशे ब्राह्मणो मां प्रतीक्षते।
अन्नार्थी तं त्वमन्नेन समांसेनोपपादय॥ 1-192-36(8629)
गन्धर्व उवाच। 1-192-37x(1102)
एवमुक्तस्ततः सूदः सोऽनासाद्यामिषं क्वचित्।
निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः॥ 1-192-37(8630)
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः।
अप्येनं नरमांसेन भोजयेति पुनः पुनः॥ 1-192-38(8631)
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम्।
गत्वाऽऽजहार त्वरितो नरमांसमपेतभीः॥ 1-192-39(8632)
एतत्संस्कृत्य विधिवदन्नोपहितमाशु वै।
तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने॥ 1-192-40(8633)
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः।
अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः॥ 1-192-41(8634)
ब्राह्मण उवाच। 1-192-42x(1103)
यस्मादभोज्यमन्नं मे ददाति स नृपाधमः॥ 1-192-42(8635)
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा।
उद्वेजनीयो भूतानां चरिष्यति महीमिमाम्॥ 1-192-43(8636)
गन्धर्व उवाच। 1-192-44x(1104)
द्विरनुव्याहृते राज्ञः स शापो बलवानभूत्।
रक्षोबलसमाविष्टो विसंज्ञश्चाभवन्नृपः॥ 1-192-44(8637)
ततः स नृपतिश्रेष्ठो रक्षसापहृतेन्द्रियः।
उवाच शख्तिं तं दृष्ट्वा न चिरादिव भारत॥ 1-192-45(8638)
यस्मादसदृशः शापः प्रयुक्तोऽयं मयि त्वया।
तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं पुरुषानहम्॥ 1-192-46(8639)
एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयोज्य च।
शक्तिं तं भक्षयामास व्याघ्रः पशुमिवेप्सितम्॥ 1-192-47(8640)
शक्तिनं तु मृतं दृष्ट्वा विश्वामित्रः पुनःपुनः।
वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह॥ 1-192-48(8641)
स ताञ्शक्त्यवरान्पुत्रान्वसिष्ठस्य महात्मनः।
भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव॥ 1-192-49(8642)
वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान्।
धारयामास तं शोकं महाद्रिरिव मेदिनीम्॥ 1-192-50(8643)
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः।
न त्वेव कौशिकोच्छेदं मेने मतिमतां वरः॥ 1-192-51(8644)
स मेरुकूटादात्मानं मुमोच भगवानृषिः।
गिरेस्तस्य शिलायां तु तूलराशाविवापतत्॥ 1-192-52(8645)
न ममार च पातेन स यदा तेन पाण्डव।
तदाग्निमिद्धं भगवान्संविवेश महावने॥ 1-192-53(8646)
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः।
दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः॥ 1-192-54(8647)
स समुद्रमभिप्रेक्ष्य शोकाविष्टो महामुनिः।
बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदाम्भसि॥ 1-192-55(8648)
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः।
न ममार यदा विप्रः कथंचित्संशितव्रतः।
जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति॥ ॥ 1-192-56(8649)
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि द्विनवत्यधिकशततमोऽध्यायः॥ 192 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-192-9 याज्यार्थे अयं मम याज्यो भवत्वित्येतदर्थम्॥ 1-192-10 एकायनगतः अतिसंकुचितमार्गे गतः॥ 1-192-52 मुमोच पातयामास। आत्मानं देहम्॥ द्विनवत्यधिकशततमोऽध्यायः॥ 192 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|