(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.192. अध्यायः 192
Mahabharata - Adi Parva - Chapter Topics
कल्माषपादराजोपाख्याने---वसिष्ठपुत्रेण शक्तिना कल्माषपादं प्रति शापदानं॥ 1 ॥
पुनरन्येन ब्राह्मणेन च कल्माषपादंप्रति शापदानं॥ 2 ॥
राक्षसाविष्टेन कल्माषपादेन वसिष्ठपुत्राणां भक्षणं॥ 3 ॥
पुत्रशोकाभिसंतप्तेन वसिष्ठेन प्राणत्यागार्थं अनेकधा प्रयतनम्॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text

`अर्जुन उवाच। 1-192-0x(1100)(8593)
ऋष्योस्तु यत्कृते वैरं विश्वामित्रवसिष्ठयोः।
बभूव गन्धर्वपते शंस तत्सर्वमेव मे॥ 1-192-1(8594)
माहात्म्यं च वसिष्ठस्य ब्राह्मण्यं ब्रह्मतेजसः।
विश्वामित्रस्य च तथा क्षत्रस्य च महात्मनः॥ 1-192-2(8595)
न शृण्वानस्त्वहं तृप्तिमुपगच्छामि खेचर।
आख्याहि गन्धर्वपते शंस तत्सर्वमेव मे॥ 1-192-3(8596)
माहात्म्यं च वसिष्ठस्य विश्वामित्रस्य भाषते॥ 1-192-4(8597)
गन्धर्व उवाच। 1-192-5x(1101)
इदं वासिष्ठमाख्यानं पुराणं पुण्यमुत्तमम्।
पार्थ सर्वेषु लोकेषु विश्रुतं तन्निबोध मे॥' 1-192-5(8598)
कल्माषपाद इत्येवं लोके राजा बभूव ह।
इक्ष्वाकुवंशजः पार्थ तेजसाऽसदृशो भुवि॥ 1-192-6(8599)
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात्।
मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः॥ 1-192-7(8600)
तस्मिन्वने महाघोरे खङ्गांश्च बहुशोऽहनत्।
हत्वा च सुचिरं श्रान्तो राजा निववृते ततः॥ 1-192-8(8601)
अकामयत्तं याज्यार्थे विश्वामित्रः प्रतापवान्।
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम्॥ 1-192-9(8602)
तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि।
अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम्॥ 1-192-10(8603)
शक्तिं नाम महाभागं वसिष्ठकुलवर्धनम्।
ज्येष्ठं पुत्रं पुत्रशताद्वसिष्ठस्य महात्मनः॥ 1-192-11(8604)
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत्।
तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा॥ 1-192-12(8605)
मम पन्था महाराज धर्म एष सनातनः।
`वृद्धभीरुनृपस्नातस्त्रीरोगिवरचक्रिणाम्॥ 1-192-13(8606)
पन्था देयो नृपैस्तेषामन्यैस्तैस्तस्य भूपतेः।'
राज्ञा सर्वेषा धर्मेषु देयः पन्था द्विजातये॥ 1-192-14(8607)
एवं परस्परं तौ तु पथोऽर्थं वाक्यमूचतुः।
अपसर्पापसर्पेति वागुत्तरमकुर्वताम्॥ 1-192-15(8608)
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः।
`अपि राजा मुनेर्मार्गात्क्रोधान्नापजगाम ह॥' 1-192-16(8609)
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः।
जगाम कशया मोहात्तदा राक्षसन्मुनिम्॥ 1-192-17(8610)
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः।
तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः॥ 1-192-18(8611)
हंसि राक्षसवद्यस्माद्राजापशद तापसम्।
तस्मात्त्वमद्यप्रभृति पुरुषादो भविष्यसि॥ 1-192-19(8612)
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम्।
गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना॥ 1-192-20(8613)
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः।
वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत॥ 1-192-21(8614)
तयोर्विवदतोरेवं समीपमुपचक्रमे।
ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान्॥ 1-192-22(8615)
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः।
ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा॥ 1-192-23(8616)
अन्तर्धाय ततोऽत्मानं विश्वामित्रोऽपि भारत।
तावुभावतिचक्राम चिकीर्षन्नात्मनः प्रियम्॥ 1-192-24(8617)
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः।
जगाम शरणं शक्तिं प्रसादयितुमर्हयन्॥ 1-192-25(8618)
तस्य भावं विदित्वा स नृपतेः कुरुसत्तम।
विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति॥ 1-192-26(8619)
शापात्तस्य तु विप्रर्षेर्विश्वामित्रस्य चाज्ञया।
राक्षसः किङ्करो नाम विवेश नृपतिं तदा॥ 1-192-27(8620)
रक्षसा तं गृहीतं तु विदित्वा मुनिसत्तमः।
विश्वामित्रोऽप्यपाक्रामत्तस्माद्देशादरिन्दम॥ 1-192-28(8621)
ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना।
बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह॥ 1-192-29(8622)
ददर्शाथ द्विजः कश्चिद्राजानं प्रस्थितं वनम्।
अयाचत क्षुधापन्नः समांसं भोजनं तदा॥ 1-192-30(8623)
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा।
आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तं प्रतिपालयन्॥ 1-192-31(8624)
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम्।
इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः॥ 1-192-32(8625)
ततो राजा परिक्रम्य यथाकामं यथासुखम्।
निवृत्तोऽन्तःपुरं पार्थ प्रविवेश महामनाः॥ 1-192-33(8626)
`अन्तर्गतस्तदा राजा श्रुत्वा ब्राह्मणभाषितम्।
सोऽन्तःपुरं प्रविश्याथ न सस्मार नराधिपः॥' 1-192-34(8627)
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम्।
उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम्॥ 1-192-35(8628)
गच्छामुष्मिन्वनोद्देशे ब्राह्मणो मां प्रतीक्षते।
अन्नार्थी तं त्वमन्नेन समांसेनोपपादय॥ 1-192-36(8629)
गन्धर्व उवाच। 1-192-37x(1102)
एवमुक्तस्ततः सूदः सोऽनासाद्यामिषं क्वचित्।
निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः॥ 1-192-37(8630)
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः।
अप्येनं नरमांसेन भोजयेति पुनः पुनः॥ 1-192-38(8631)
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम्।
गत्वाऽऽजहार त्वरितो नरमांसमपेतभीः॥ 1-192-39(8632)
एतत्संस्कृत्य विधिवदन्नोपहितमाशु वै।
तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने॥ 1-192-40(8633)
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः।
अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः॥ 1-192-41(8634)
ब्राह्मण उवाच। 1-192-42x(1103)
यस्मादभोज्यमन्नं मे ददाति स नृपाधमः॥ 1-192-42(8635)
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा।
उद्वेजनीयो भूतानां चरिष्यति महीमिमाम्॥ 1-192-43(8636)
गन्धर्व उवाच। 1-192-44x(1104)
द्विरनुव्याहृते राज्ञः स शापो बलवानभूत्।
रक्षोबलसमाविष्टो विसंज्ञश्चाभवन्नृपः॥ 1-192-44(8637)
ततः स नृपतिश्रेष्ठो रक्षसापहृतेन्द्रियः।
उवाच शख्तिं तं दृष्ट्वा न चिरादिव भारत॥ 1-192-45(8638)
यस्मादसदृशः शापः प्रयुक्तोऽयं मयि त्वया।
तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं पुरुषानहम्॥ 1-192-46(8639)
एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयोज्य च।
शक्तिं तं भक्षयामास व्याघ्रः पशुमिवेप्सितम्॥ 1-192-47(8640)
शक्तिनं तु मृतं दृष्ट्वा विश्वामित्रः पुनःपुनः।
वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह॥ 1-192-48(8641)
स ताञ्शक्त्यवरान्पुत्रान्वसिष्ठस्य महात्मनः।
भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव॥ 1-192-49(8642)
वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान्।
धारयामास तं शोकं महाद्रिरिव मेदिनीम्॥ 1-192-50(8643)
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः।
न त्वेव कौशिकोच्छेदं मेने मतिमतां वरः॥ 1-192-51(8644)
स मेरुकूटादात्मानं मुमोच भगवानृषिः।
गिरेस्तस्य शिलायां तु तूलराशाविवापतत्॥ 1-192-52(8645)
न ममार च पातेन स यदा तेन पाण्डव।
तदाग्निमिद्धं भगवान्संविवेश महावने॥ 1-192-53(8646)
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः।
दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः॥ 1-192-54(8647)
स समुद्रमभिप्रेक्ष्य शोकाविष्टो महामुनिः।
बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदाम्भसि॥ 1-192-55(8648)
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः।
न ममार यदा विप्रः कथंचित्संशितव्रतः।
जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति॥ ॥ 1-192-56(8649)

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि द्विनवत्यधिकशततमोऽध्यायः॥ 192 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-192-9 याज्यार्थे अयं मम याज्यो भवत्वित्येतदर्थम्॥ 1-192-10 एकायनगतः अतिसंकुचितमार्गे गतः॥ 1-192-52 मुमोच पातयामास। आत्मानं देहम्॥ द्विनवत्यधिकशततमोऽध्यायः॥ 192 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.